________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
द्वितीय
उद्देशकः
६४७ (A)
मूलायरि रायणितो, अणुसरिसो तस्स होउवज्झातो। गीयमगीया सेसा, सज्झिल्लया होंति सीसा उ ॥ १३०७ ॥
मूलाचार्यो नाम रालिको रत्नाधिकः। तस्य मूलाचार्यस्याऽनुसदृशः अनुरूपो भवति | उपाध्यायः। शेषास्तु ये गीता: गीतार्थास्ते तस्य सझिलगा अनुरत्नाधिकाः । अगीता अगीतार्थाः. मकारो अलाक्षणिकः, शिष्या भवन्ति ॥ १३०७॥
रायणिया गीयत्था, अलद्धिया धारयंति पुव्वदिसं। अपहुव्वंत सलक्खण, केवलमेगे दिसाबंधो ॥ १३०८ ॥
ये पुना रालिकाः व्रतपर्यायेणाधिका गीतार्थाः श्रुतसम्पदुपेता छेदश्रुतनिष्पन्नाश्च केवलं सङ्ग्रहे उपग्रहे चाऽलब्धिकाः ते पूर्वदिशं पूर्वाचार्यप्रदत्तां दिशम् अनुरत्नाधिकत्वलक्षणं धारयन्ति। न त्वाचार्यपदमुपाध्यायपदं वा तेषामारोप्यते, लब्धिहीनत्वात् । एष विधि यावन्तः स्थापिता आचार्यास्तेषां प्रत्येकमनुगन्तव्यः। एतच्च तदा क्रियते यदा भूयांस
साधवोऽवाप्यन्ते। अपहुव्वंत इत्यादि, अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्य& प्राप्यमाणे केवलमेकस्मिन् सलक्षणे विशिष्टाचार्यलक्षणोपेते दिग्बन्धः आचार्यपदाध्यारोपः
गाथा १३०५-१३१०
आचार्यपद स्थापन विधि:
६४७ (A)
For Private and Personal Use Only