________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशक: ६४६ (B)
.
.
.
वक्तव्यो-यथा द्वयोर्गोपालयोर्मिलितयोः प्रभूता धनवृद्धिरभूत्तथा युष्माकमस्माकं च मिलितानां विहरतां भूयान् ज्ञानादिलाभो भवतीति मिलितैर्विहर्तव्यमिति ॥१३०५ ॥
साम्प्रतमेनामेव गाथां विवरीषरिदमाहगीयमगीया बहवो, गीयस्थ सलक्खणा उ जे तत्थ। तेसिं दिसाउ, वियरति सेसे जहरिहं तु ॥ १३०६ ॥
गच्छे बहवः साधवो गीयमगीया इति गीतार्था अगीतार्थाश्च। तत्र ये गीतार्थाः, तत्रापि सलक्षणा आचार्यपदलक्षणोपेतास्तेषां दिश: आचार्यपदानि दत्त्वा शेषान् साधून् यथार्ह यथायोग्यं तं केचिदनुवैयावृत्त्यकरतया केचित्सामान्यतः शिष्यत्वेन वितरति प्रयच्छति। एतच्च तदा द्रष्टव्यं यदा प्रत्येकं बहवः शिष्याः प्राप्यन्ते, अन्यथा त्वेक एवाऽऽचार्यः स्थापनीयः, शेषाः समस्ता अपि शिष्यत्वेन सम्बध्यन्ते। तत्रापि सलक्षणानां । दिशो अनुज्ञायन्ते ॥ १३०६॥ .. एतदेव सुव्यक्तमभिधित्सुराह१. 'ग्यतं केचिदनुरत्ना-धिकत्वेन केचित्सामान्यत्वेन शिष्यत्वेन - वा. मो. पु. ॥
गाथा १३०५-१३१०
आचार्यपद स्थापन विधि:
६४६ (B)
For Private and Personal Use Only