________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६४५ (A)
पुव्वं पच्छुट्टि, सीसम्मि उ जं तु होइ सच्चित्तं। संवच्छरम्मि तइए, तं सव्वं पवाययंतस्स७ ॥ १३०० ॥
यत् पूर्वं पश्चाद्वाऽऽचार्यपदस्थापनात उद्दिष्टं सचित्तम् अचित्तं वा शिष्ये तृतीये संवत्सरे |* भवति सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति, एष सप्तमो विभागः ७ ॥ १३०० ॥
पुव्वुद्दिष्टुं तस्सा, ८ पच्छुट्ठि पवाययंतस्स। संवच्छरम्मि पढमे, तं सिसिणीए उ सच्चित्तं९॥ १३०१॥
आचार्यपदस्थापनातः पूर्वमुद्दिष्टं [यत्] सचित्तमचित्तं वा प्रथमे संवत्सरे शिष्यिण्या: शिष्याया भवति सम्पद्यते, तत्सर्वं तस्याः शिष्याया आभवति, एषो अष्टमो विभागः ८। यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टं सचित्तादिकं प्रथम संवत्सरे शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोराभाव्यम्। एष नवमो विभागः ९ ॥१३०१॥
पुव्वं पच्छुद्दिटुं, सिस्सीए जं तु सच्चित्तं। संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स१० ॥ १३०२ ॥
xx
गाथा १२९६-१३०४
आभवन व्यवहारः
६४५ (A)
For Private and Personal Use Only