________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् द्वितीय उद्देशकः
६४१ (B)
श्रुतानेकपाक्षिकेत्वराचार्यस्थापने द्विविधचिकित्सां मोहचिकित्सां रोगचिकित्सा चेत्यर्थः, प्रदीर्घकालं कृत्वा समागतः सन् शङ्किते सूत्रे अर्थे च कं पृच्छेत् ? नैव कञ्चनेतिभावः, स्थापिताचार्यस्य भिन्नवाचनाकत्वात्। इतरे वा गच्छवासिन आचार्य मोहचिकित्सां रोगचिकित्सां वा कुर्वति कं पृच्छन्ति? नैव कञ्चन, पूर्वोक्तादेव हेतोः। ततस्ते वाचनाप्रदायकमलभमाना गच्छान्तरमुपसम्पद्येरन्। गच्छान्तरोपसम्पत्तौ च प्रश्नहेतोर्गणभेदः स्यात् ॥१२८९॥
सम्प्रति श्रुतानेकपाक्षिकयावत्कथिकाऽऽचार्यस्थापने दोषमाहन तरइ सो संधेलं, अप्पाहारो व पुच्छियं देइ।
गाथा
१२८६-१२९० अन्नत्थ य पुच्छंते, सचित्तादी उ गेण्हंति ॥ १२९० ॥
पदस्थापने
भङ्गाः स श्रुतानेकपाक्षिकः स्थापितो यावत्कथिक आचार्यो भिन्नवाचनाकत्वात् न शक्नोति || सन्धातुं विस्मृतमालापकं दातुम्। अथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोऽप्युच्यते, ततोऽल्पाधारः
६४१ (B) अल्पस्य सूत्रस्यार्थस्य चाऽऽश्रय इति पृष्टः सन्नन्यं प्रष्ट्वाऽऽलापकं ददाति। अन्यत्र च
For Private and Personal Use Only