________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६४१ (A)
.
स्थानाभ्यां, ते एव दर्शयति -शङ्किते अभिनवग्रहणे च साधूनां, यदि वा तस्य स्थाप यितुर्दीधैन कालेन रोगचिकित्सां मोहचिकित्सां वा कृत्वा समागतस्य शङ्कितम् ॥१२८७॥ |
एतदेव विभावयिषः प्रथमत इत्वरस्य यावत्कथिकस्य च स्थापने विषयमाहपरिकम्मं कुणमाणे, मरणस्सऽब्भुजयस्स व विहारे। मोहे रोगचिकिच्छा, ओहावेंते य आयरिए ॥ १२८८ ॥
अभ्युद्यतस्य मरणस्य पादपोपगमनलक्षणस्य परिकर्म द्वादशसांवत्सरिकसंलेखनारूपं कुर्वाणे, यदि वा अभ्युद्यतविहारस्य जिनकल्पादिप्रतिपत्तिलक्षणस्य परिकर्म तपोभावनादिलक्षणं कुर्वति यावत्कथिक आचार्यः स्थापनीयः। मोहे मोहचिकित्सायां रोगचिकित्सायां यदि वा अवधावत्याचार्ये इत्वर आचार्यः स्थापनीयः ॥ १२८८ ॥
तत्र श्रुतानेकपाक्षिकेत्वराचार्यस्थापने दोषमाहदुविहतिगिच्छं काऊण, आगओ संकियम्मि कं पुच्छे ? । पुच्छंतु व कं इयरे, गणभेओ पुच्छणाहेउं ॥ १२८९ ॥
गाथा १२८६-१२९० पदस्थापने
६४१ (A)
For Private and Personal Use Only