________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३९ (B)
कालगतेऽपि राज्ञि न वैराज्यमुपजायते, किन्तु तदवस्थमेव राज्यमनुवर्तते, यस्तु निरपेक्षः स न स्थापयति युवराजं, तस्मिंश्चाऽस्थापिते राज्ञि कालगते दायादानां परस्परकलहभावतो राज्यं विनाशमाविशति । एवमाचार्योऽपि द्विविध:-सापेक्षो निरपेक्षश्च, तत्र यो गच्छसापेक्षः स जीवन्नेव गणधरं स्थापयति। तस्मिश्च स्थापिते कालगतेऽप्याचार्ये गच्छो न सीदति। तथा चाह-इति एवं सापेक्षराज इव युवनरेन्द्रं सापेक्ष आचार्यो जीवन्नेवेति वाक्यशेषः, गच्छोपाध्यायं गच्छनायकं स्थापयति। यः पुनर्गच्छनिरपेक्षः सन् आचार्यं जीवन् न स्थापयति तस्मिन्कालगते परस्परकलहभावतो गच्छो विनाशमुपयाति, तस्माज्जीवतैव गणधर आचार्य उपाध्यायो वा स्थापयितव्यः ॥१२८४ ॥
साम्प्रतमित्वराचार्योपाध्यायस्थापनाविषयमाहगणहरपायोग्गासति, पमाय अट्ठाविए व कालगते।
थेराण पगासंती, जावऽन्नो न ठावितो तत्थ ॥ १२८५ ॥ गणधरस्य गणधरपदस्य प्रायोग्यो गणधरप्रायोग्यः, तस्याऽसति अभावे, अथवा |
गाथा १२८१-१२८५ पदस्थापन सामाचारी
६३९ (B)
For Private and Personal Use Only