________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६४० (A)
प्रमादतो अस्थापित एवाचार्ये कालगते इत्वर आचार्यः उपाध्यायो वा स्थाप्यते। स च यैः स्थाप्यते ते स्थविराणां गच्छबृहत्तराणां प्रकाशयन्ति। यावत्तत्र मूलाचार्यपदे वा मूलोपाध्यायपदे वाऽन्यो न च स्थापितो भवति तावदेष युष्माकमाचार्य उपाध्यायो वा प्रवर्तक इति ॥१२८५ ॥
इह एकपाक्षिको द्विविध उक्तः- प्रव्रज्यया श्रुतेन च। अत्र च भङ्गचतुष्टयं, तद्यथाप्रव्रज्यया एकपाक्षिकः श्रुतेन च १, प्रव्रज्यया न श्रुतेन २, न प्रव्रज्यया श्रुतेन ३, न ४ प्रव्रज्यया नापि श्रुतेन ४, एतदेव भङ्गचतुष्टयं कुलादिष्वपि योजनीयम्। तथा चाह
पव्वज्जाए कुलस्स य, गणस्स संघस्स चेव पत्तेयं । समयं सुएण भंगा, कुज्जा कमसो दिसाबंधे ॥ १२८६ ॥
दिग्बन्धे आचार्यपदे उपाध्यायपदे वा स्थाप्यमाने इत्यर्थः, प्रव्रज्यायाः कुलस्य | गणस्य सङ्घस्य च प्रत्येकं श्रुतेन समकं श्रुतेन सार्धं भङ्गान् कुर्यात्, भङ्गचतुष्टयं | प्रत्येकं योजयेदिति भावः । तत्र प्रव्रज्याया भङ्गचतुष्टयमुपदर्शितम्। इदानी कुलस्योपदय॑ते१. एषा (१२८६) गाथा चूर्णी १२८२ गाथानन्तरं वर्तते ॥
गाथा १२८६-१२९० पदस्थापने भङ्गाः
६४० (A)
For Private and Personal Use Only