________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३९ (A)
स्वगणसम्भवी स्वशिष्य इत्याद्यपि द्रष्टव्यं, श्रुते श्रुतपाक्षिकः पुनरेकवाचनः। इह सूत्रे इत्वरदिग्ग्रहणात् यावत्कथिक्यपि दिक् सूचिता तामुभयामपि व्याख्यानयति अब्भुज्जय इत्यादि, आचार्यो अभ्युद्यतविहारपरिकर्म कर्तुकामः, उपलक्षणमेतत्, अभ्युद्यतमरणं वा प्रतिपत्तुमना यावत्कथिकमाचार्यमुपाध्यायं वा स्थापयति- मोहे मोहचिकित्सां रोगे रोगचिकित्सां वा कर्तुकाम इत्वरम् । अक्षरयोजना त्वियं-अभ्युद्यतपरिकर्मणि अभ्युद्यतमरणे वा यावत्कथिकावाचार्योपाध्यायाविति शेषः। मोहे रोगे वा इत्वरौ बहुवचनं द्वित्वेऽपि प्राकृतत्वात् ।। १२८३॥
आचार्यश्च यावत्कथिकाचार्यस्थापने द्विविध:- सापेक्षो निरपेक्षश्च, तथा चात्र राजदृष्टान्तस्तमेवाहदिलुतो जह राया, सावेक्खो खलु तहेव निरवेक्खो। सावेक्खो जुवनरिदं, ठवेइ इय गच्छुवज्झायं ॥ १२८४ ॥
दष्टान्तो यथा राजा तथाहि-राजा द्विविध: सापेक्षो निरपेक्षश्च। तत्र यः सापेक्षः स | जीवन्नेव युवराजं स्थापयति, युवराजश्च स स्थापनीयो यस्मिन्ननुरक्ता परिषत्। ततः
गाथा १२८१-१२८५
पदस्थापन सामाचारी
६३९ (A)
For Private and Personal Use Only