________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३८ (A)
.
एक: समानः पक्ष एकपक्षः, सोऽस्यास्तीति एकपाक्षिकः। प्रव्रज्यया श्रुतेन च स्ववर्गस्य भिक्षोः कल्पते इत्वरां कियत्कालभाविनीम्, इत्वरग्रहणमुपलक्षणं, यावत्कथिका च दिशमाचार्यत्वमुपाध्यायत्वं वा अनुदिशं वा आचार्योपाध्यायपदद्वितीयस्थानवर्तित्वं वाशब्दौ विकल्पार्थों, उद्देष्टुं वा तस्य वा स्वयं धारयितुं, यथा वा तस्य गणस्य प्रीतिकं स्यात् तथा दिशमनुदिशं वा उद्दिशेत्। किमुक्तं भवति? भिन्नपाक्षिकमप्यपवादपदेन स्वगणप्रीत्याऽऽचार्यादिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः ॥ व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह सम्बन्धमाह
निक्खित्तम्मि उ लिंगे, मूलं सातिजणे य पहाणादी। दिण्णेसु य होइ दिसा, दुविहा वि वएसु संबंधो ॥ १२८१ ॥
यदि लिङ्गं रजोहरणं निक्षिप्त परित्यक्तं भवति ततस्तस्मिन्निक्षिप्ते लिङ्गे, यदि वा || लिङ्गापरित्यागेऽपि स्नानादेः साइज्जणे अनुमनने मूलं नाम प्रायश्चित्तं भवति। तस्मिंश्च | सामाचारी मूलप्रायश्चित्तदानेन समस्तपर्यायोच्छेदतः प्रदत्तेषु व्रतेषु द्विविधाप्याचार्यत्वोपाध्यायत्व- |*
६३८ (A) स्वरूपा दिग् दीयते। ततोऽवधावनसूत्रान्तरं दिक्सूत्रोपन्यासः एष पूर्वसूत्रेण सहास्य सूत्रस्य
.
गाथा १२८१-१२८५ पदस्थापन
For Private and Personal Use Only