________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिकूलोपसर्गगतेन प्रकारेण अनुलोमा अपि स्वजनैः क्रियमाणा मज्जनादय उपसर्गा असाइजणे अननुमनने भवन्त्यफलाः ॥ १२७९ ॥
अन्यच्च
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३७ (B)
साहीणभोगचाई, अवि महती निजरा उ एयस्स। सुहुमो वि कम्मबंधो, न होइ उ नियत्तभावस्स ॥ १२८०॥
अपीति गुणान्तरसमुच्चये, स्वजनक्रियमाणमज्जनाऽङ्गरागाद्यनास्वादनादेष स्वाधीनभोगत्यागी स्वाधीनभोगपरित्यागाच्चैतस्य महती निर्जरा पुराणकर्मनिर्जरणं प्रवृद्धप्रवृद्धतरशुभाशयसम्भवात्, न चाप्यभिनवकर्मसङ्गिलनं यत आह- न तु निवृत्तभावस्य अवधावनात् प्रतिनिवृत्तपरिणामस्य सतः सूक्ष्मोऽपि कर्मबन्धो भवति, कर्मोपचयहेतोर्दुष्टाध्यवसायस्याभावात् ॥ १२८० ॥
सूत्रम्- एगपक्खियस्स भिक्खुयस्स कम्पति इत्तरियं दिसं वा अणुदिसं वा |* उद्दिसित्तए वा, धारित्तए वा जहा वा तस्स गणस्स पत्तियं सिया। इति ॥ २५॥
सूत्र २६
गाथा १२७५-१२८० एकपाक्षिकस्य आचार्यपदे स्थापनम्
६३७ (B)
For Private and Personal Use Only