________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६३७ (A) |
܀܀܀܀܀܀܀
www.kobatirth.org
तेषां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति -
मज्जणगंधे परियारणादि जहऽनिच्छतो अदोसा य । अणुलोमा उवसग्गा, एमेव इमं पि पासामो ॥ १२७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा अनिच्छतः अनभिलषतोऽनुलोमा अनुकूला उपसर्गाः । के ते इत्याह-मज्जनं स्नानं, गन्धः पटवासादिरूपः परिचारणा स्त्रिया बलात्कारेणोपभोगः, आदिशब्दादेवंविधान्योपसर्गपरिग्रहः, एते यथा अदोषाः तद्विषयाऽनुमननाऽभावात् । एवमिदमप्यधिकृताऽवधावितसाधुविषयं मज्जनादि पश्यामः, तदनुरागाभावतो निर्दोषमिति भावः ॥१२७८ ॥
एतदेव भावयति
जह चेव य पडिलोमा, अपदुस्संतस्स होंत दोसा य । एमेव य अणुलोमा, होंति असाइज्जणे अफला ॥ १२७९ ॥
यथेति दृष्टान्तोपन्यासे, चेवशब्दो दृष्टान्तदाष्टन्तिकयोः साम्यावधारणार्थः । यथा चैव प्रतिलोमाः प्रतिकूला उपसर्गाः अप्रद्विषतः प्रद्वेषमगच्छतो भवन्त्यदोषाय, एवमेव अनेनैव
For Private and Personal Use Only
सूत्र २६ गाथा १२७५-१२८० एक पाक्षिकस्य आचार्यपदे
स्थापनम्
६३७ (A)