________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६३६ (B)||
अहवा बिंति अगीया, मज्जणमाईहिं एस गिहीभूतो । तं तु न होइ पमाणं, सो चेव तहिं पमाणं तु ॥ १२७६ ॥
अथवेति प्रकारान्तरोपप्रदर्शने । अगीतार्था ब्रुवते- मज्जनादिभि: मज्जना-ऽङ्गरागधूपाधिवासादिभिरेष गृहीभूतो जातः, स पुनरेवमाह-'नाहं स्नानादिकं कृतवान् , यदि वा बलादहं स्वजनैः स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान् जात' इति। तत्रैवम्भूते विवादे यत्ते सहाया ब्रुवते तन्न भवति प्रमाणं, किन्तु स एव तत्र प्रमाणमिति ॥१२७६ ॥
एतदेव प्रचिकटयिषुराहपडिसेवी अपडिसेवी, एवं थेराण होइ उ विवादो। तत्थ वि होइ पमाणं, स एव पडिसेवणा न खलु ॥ १२७७ ॥
स्थविरा आचक्षते- एष प्रतिसेवी, स प्राह-नाहं प्रतिसेवी। एवं स्थविरैः सह, ४ गाथायां षष्ठी तृतीयार्थे विवादो भवति। तत्रापि प्रतिसेवनाविषयेऽपि भवति स एव प्रमाणं, न पुनः खलु सहायैरुच्यमाना प्रतिसेवना॥१२७७ ॥
सूत्र २६
गाथा १२७५-१२८० एकपाक्षिकस्य आचार्यपदे स्थापनम्
६३६ (B)
For Private and Personal Use Only