________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६३६ (A)
܀܀܀܀܀܀
www.kobatirth.org
डिबज्झते ऊ इत्यादि, अप्रतिबध्यमाने कर्मकर्तर्ययं प्रयोगः क्वचिदपि प्रतिबन्धमकुर्वति पुनः सुचिरेणापि प्रदीर्घेणापि कालेन हुः निश्चितं नोपहन्यते उपधिः क्वचनापि प्रतिबन्धाकरणतः सततोद्यतत्वात् ॥१२७३ ॥१२७४ ॥
सम्प्रति "विवादो" इति व्याख्यानयति
गंतूण तेहि कहियं स यावि आगंतु तारिसं कहए। तो तं होइ पमाणं, विसरिसकहणे विवादो उ ॥ १२७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यौ सहायौ तस्य प्रेषितौ, ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रतिसेवनं वा कथितं स चापि कृतावधावनः साधुरागत्य तादृशं कथयति, ततस्तद्भवति प्रमाणम्, उभयेषामप्यविसंवादात् । अथ विसदृशं कथयति ततो विवादः । सहाया ब्रुवते - एष प्रतिसेवीति । स प्राह न प्रतिसेवीति, तत्र 'सत्यप्रतिज्ञाः खलु व्यवहारा:' इति, स एव प्रमाणीक्रियते, न सहायाः ।। १२७५ ॥
तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः । सम्प्रति मज्जनादिकमधिकृत्याऽऽह
For Private and Personal Use Only
***•
सूत्र २६
गाथा १२७५-१२८० एक पाक्षिकस्य आचार्यपदे
स्थापनम्
६३६ (A)