________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६३५ (B)
प्रतिबध्यमान आगच्छति। न चान्तरा रात्रौ दिवसे वा स्वपिति तदा तस्मिन्नप्यप्रतिबध्यमाने नोपहन्यते अथ स्वपिति तर्दुपहन्यते ॥१२७२ ॥
संवेगसमावन्नो, अणुवहयं घेत्तु एति तं चेव। अह होजाहि उवहतो, सो वि य जइ होज गीयत्थो ॥ १२७३ ॥ तो अन्नं उप्पाए, तं चोवहयं विगंचिउं एइ। अपडिबझंते ऊ, सुचिरेण वि हू न उवहम्मे ॥ १२७४ ॥
संवेगो मोक्षाभिलाषस्तं समापन्नः प्राप्तः संवेगसमापन्नः तमेव गुरुप्रदत्तमुपधिमनुपहतं गृहीत्वा एति समागच्छति। अथ भवेत् कथमप्युपहतः, सोऽपि च साधुर्यदि स्याद् गीतार्थः, ततस्तमुपहतमुपधिं विगंचिउंति परिष्ठाप्याऽन्यमुपधिमुत्पाद्य एति समायाति। अथ स्यादगीतार्थस्तर्हि तेनोपधिरन्यो नोत्पादनीयः, अगीतार्थत्वेनान्योत्पादने योग्यताया अभावात्। किन्तु तेनैवोपधिना समागन्तव्यम्। समागतस्य चान्यमुपधिमाचार्याः समर्पयन्ति। प्राक्तनं च साधुभिः परिष्ठापयन्ति। सम्प्रति 'अपडिबझंते' इति व्याख्यानयति- अप्प
गाथा १२६९-१२७४
उपधेः
हननम्
६३५ (B)
For Private and Personal Use Only