________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३५ (A)
निवर्तितुं नेच्छति ततः सहाया: णं इति तं बुवते- कियच्चिरमस्माभिरवस्थातव्यम्? एहि व्रजामः। एवमुक्ते यदि सोऽभिधत्ते- 'नाहं व्रजामि' ततस्तस्मिन् प्रत्यागमनमनिच्छति भणन्ति यदि नागच्छसि तर्हि उपधिमपि तावद्देहि मा उपधेरप्युपघातो भूदिति ॥ १२७१ ॥
न वि देमि त्ति य भणिए, गएसु जइ सो ससंकितो सुवति। उवहम्मइ निस्संके, न हम्मए अप्पडिवजंते ॥ १२७२ ॥
यदि उपधेर्याचने कृते स ब्रूते- नापि नैव ददामि उपधिमहमिति। तत एवं भणिते स सङ्घाटको गच्छति, 'सङ्घाडग तिह' इति व्याख्यातमधुना 'वुत्थो उवहिग्गहणे' इत्येतद्व्याख्यानयति गएसु इत्यादि, गतेषु तेषु सहायेषु यदि सः सशङ्कितः शङ्कनं शङ्कितं, सहशङ्कितं यस्य येन वा स तथा। का पुनः शङ्का? उच्यते –किमुत्प्रव्रजामि? किं वा न? इति एवंरूपशङ्कोपेतः स्वपिति रात्रौ, तदा स उपधि: उपहन्यते। अथ निःशङ्कः सन् स्वपिति यथा 'नं नियमान्मयोत्प्रव्रजितव्यमिति तदा नोपहन्यते। अथ निःशङ्क उषित्वा यदि वा यस्मिन् दिने ते सहाया गतास्तद्दिवसमेवानुषित्वा यदि निवृत्त्य व्रजिकादिष्व
गाथा १२६९-१२७४
उपधेः हननम्
६३५ (A)
१. न - मु. आ.७ आ..६४ नास्ति ।
For Private and Personal Use Only