________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३४ (B)
तथा येन कारणेन स्त्रीसेवादित आपन्नं प्रायश्चित्तस्थानं तेन कारणेन स स्पृष्टः कर्मबन्धेन, ततस्तद्विशोधनाय तस्मै दीयते प्रायश्चित्तम्। अथ योऽसौ द्वितीयः सङ्घाटक: प्रेषितस्तेन कियच्चिरं स प्रतीक्षणीयः? तत आह-संघाडगेत्यादि, सङ्घाटकः त्र्यहं त्रीन् दिवसान् यावत् प्रतीक्षते। इह त्र्यहग्रहणं मध्यग्रहणं 'मध्यग्रहणे चाऽऽद्यन्तयोरपि, ग्रहणमिति जघन्यत एकाहमुत्कर्षतः पञ्चाहमिति द्रष्टव्यम्। पञ्चाहप्रतीक्षणानन्तरं यदि स तत्र व्युषितो भवितुमर्हति तत उपधिग्रहणं कर्तव्यं, तदीय उपधिर्याचित्वा परिग्रहणीयः, ततो विवादोत्ति, यत्र सोऽवधावितस्तत: प्रतिनिवृत्तस्य सहायैर्यदि विवादो वक्ष्यमाणस्वरूप: क्रियते। तदा स प्रमाणयितव्य इति ॥ १२७० ॥ सम्प्रत्येतदेवोत्तरार्धं व्याचिख्यासुराह
गाथा
१२६९-१२७४ एगाह तिहे पंचाहए य, तो बिंति णं सहाया उ।
उपधेः वच्चामु अणिच्छंते, भणंति उवहिंपि ता देहि ॥ १२७१ ॥
हननम् जघन्यत एकाहे एकस्मिन् दिवसे मध्यमतस्त्र्यहे, उत्कर्षतः पञ्चाहे प्रतीक्षिते यदि स || ६३४ (B) १. गाथाचतुष्कं (१२७१-४) जेभा. खंभा. प्रत्योर्नास्ति ।
For Private and Personal Use Only