________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३३ (A)
पहाणादीणि कयाई, देह वए मज्झ बेइ तु अगीतो। पुव्वं च उवस्सग्गा, किलिट्ठभावो अहं आसि ॥ १२६५॥
मया स्नानादीनि स्नानाङ्गरागादीनि कृतानि, तथा पूर्वमुपसर्गात् उपसर्गेष्वनारब्धेष्वहं संक्लिष्टपरिमाणोऽभवम्, उपसर्गप्रारम्भसमकालमेव पुनर्विशुद्धपरिणामो जातः, तत एतेन कारणेन मह्यं ददत यूयं व्रतानि, व्रतानि ममारोपयतेति भावः, इति अगीतो अगीतार्थो ब्रूते॥१२६५॥
एवं तेनोक्ते यदाचार्येण वक्तव्यं तदाहवेसकरणं पमाणं, न होइ न य मज्जणं नऽलंकारो । साइजिएण सेवी, अणणुमएणं असेवी उ ॥ १२६६ ॥
वत्स! न वेषकरणं न साधुवेषकरणं प्रमाणं, न च मजनं, नाप्यलङ्कारः प्रमाणं, ४ यथाक्रममप्रतिसेवने प्रतिसेवने वा, किन्तु साइज्जिएणत्ति यदि स्नानादिविषये अनुमननं कृतं तेन सेवी प्रतिसेवनाकारी भवति। अननुमतेन तु असेवी अप्रतिसेवी ॥ १२६६ ॥
गाथा
१२६२-१२६८
अवधावने आलोचना
६३३ (A)
अन्यच्च
For Private and Personal Use Only