________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६३२ (B)
अवि सिं धरइ सिणेहो, पोराणो आओ निप्पिवासाए। इइ गारवमारुहितो, कहेइ सव्वं जहावत्तं ॥ १२६३ ॥
अपीति सम्भावने, सम्भावयामीत्येतत्-सिं ति एतेषां पौराणः पुराणायामवस्थायां भवः पौराणः स्नेह आयातोऽद्यापि निष्पिपासया मदीयवैयावृत्त्यादिपिपासाव्यतिरेकेणापि धरति विद्यते, इति एवं गौरवत्वमारोपितः सन् किमेतेषां कुर्मः? जीवितमपि मदीयमेतेषामेवेति मन्वानो यथावृत्तं [सर्वं ] समस्तमपि कथयति।।१२६३॥ एतदेव स्पष्टतरमाचष्टे
एवं भणितो संतो, उत्तुइतो सो कहेइ सव्वं तु। जं णेण समणुभूयं, जं वा से तहि कयं तेहिं ॥ १२६४ ॥
एवं पूर्वप्रदर्शितेन प्रकारेण भणितः सन् उत्तुइतोत्ति देशीपदमेतद् गर्वे वर्तते, ततोऽयमर्थः- अहमेव गुरूणां मान्यः, नान्य इति गौरवमारोपितः सर्वमेव तुरवधारणे यदनेन स्वयं समनुभूतं यद्वा से तस्य तत्र गतस्य तैः मिथ्यादृष्टिभिः कृतं तत्समस्तमेव कथयति ॥१२६४॥ तत्र यदि सोऽगीतार्थो भवति तत इदं ब्रूते
गाथा १२६२-१२६८
अवधावने आलोचना
६३२ (B)
For Private and Personal Use Only