________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२८ (B)
X.
x
.
साम्प्रतमेनमेव विवरीषुः प्रथमतो "लहुगा य दोसु दोसु य गुरुगा" इति | व्याख्यानयति
पुरिसे उ नालबद्धे, अणुव्वतोवासए य चउलहुगा। एयासुं चिय थीसुं, अनालसम्मे य चउगुरुगा ॥ १२५२ ॥
अत्रापि सर्वत्र सप्तमी तृतीयार्थे, पुरुषेण नालबद्धेन, तुशब्दो विशेषणार्थः। स | चैतद्विशिनष्टि-मिथ्यादृष्टिना अथवा अणुव्रतोपासकेन नालबद्धेनैताभ्यां द्वाभ्यां पुरुषाभ्यां च- शब्दस्यानुक्तसमुच्चयार्थत्वाद्दर्शनमात्रश्रावकेण च सार्धं भुञ्जानस्य प्रायश्चित्तं चत्वारो लघुकाः । व्याख्यातं 'लघुगा य दोसु' इति पदम्। अधुना 'दोसु य गुरुगा' इति व्याख्यानयति एयासुं चिय थीसुं इति एताभ्यामेव स्त्रीभ्यां, किमुक्तं भवति? नालबद्धमिथ्यादृष्टिस्त्रिया नालबद्धाणुव्रतोपासकस्त्रिया वा सार्धं भुञ्जानस्य चतुर्गुरुकाः 'अनालसम्मे य चउगुरुगा' इति अनालबद्धमिथ्यादृष्टिपुरुषेणाऽनालबद्धाणुव्रतोपासकेन वा समं भुञ्जानस्य चतुर्गुरुकाः ।।११५२ ॥
अधुना "छम्मास लहुगुरु" इति व्याख्यानार्थमाह
गाथा १२५०-१२५६ अवधावने शोधि:
६२८ (B)
For Private and Personal Use Only