________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
www.kobatirth.org
܀܀܀܀܀܀܀
अहवा एगस्स विही, उत्तो णेगाण होइ अयमण्णो । आइण्णविगडिए वा, पट्ठवणा एस संबंधो ॥ ९६५ ॥
अथवेति सम्बन्धस्य प्रकारान्तरतोपप्रदर्शने । पूर्वमेकस्य प्रायश्चित्तदानविधिरुक्तः । साम्प्रतमयमनेकेषामन्यः प्रायश्चित्तदानविधिः । अथवा यदाचीर्णं प्रतिसेवितं तस्मिन् *विकटिते आलोचिते प्रस्थापना प्रायश्चित्तदानं भवति । ततः प्रायश्चित्तदानप्रस्तावादस्य ५१४ (A) सूत्रस्योपनिपात इत्येष सम्बन्धः ॥ ९६५ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
Acharya Shri Kailassagarsuri Gyanmandir
द्वौ साधर्मिक संविग्न-साम्भोगिकादिरूपावेकत एकस्मिन् स्थाने समुदितौ विहरतः । तत्रैकोऽन्यतरत् अकृत्यस्थानं प्रतिसेव्य आलोचयेत् । तत्र यद्यगीतार्थः प्रतिसेवितवान् ततस्तस्मै शुद्धतपो दातव्यम्, अथ गीतार्थस्तर्हि यदि परिहारतपोयोगमापन्नस्ततः परिहारतपो दद्यात्। तदनन्तरं स्थाप्यते विविक्तं कृत्वा प्ररूप्यते इति स्थापनीयं परिहारतपो योग्यमनुष्ठानं, तत् स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिपद्यते इतर : कल्पस्थितो भवति, स एव च तस्यानुपारिहारिकः, ततस्तेन तस्य करणीयं वैयावृत्त्य - मित्येष सूत्रसङ्क्षेपार्थः । अधुना निर्युक्तिविस्तरः
For Private and Personal Use Only
सूत्र - १ गाथा ९६५-९६८ निक्षेपाः
द्विशब्दस्य
५१४ (A)