________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१४ (B)
'दो साहम्मिय छब्बारसेव, लिंगम्मि होइ चउभंगो। चत्तारि विहारम्मि उ, दुविहो भावम्मि भेदो उ ॥ ९६६ ॥ द्विशब्दस्य साधर्मिकशब्दस्य च यथाक्रमं षट् द्वादश नामादयो निक्षेपाः, द्विशब्दस्य षट्कः साधर्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः। लिङ्गे लिङ्गविषये चतुर्भङ्गी भवति। सूत्रे च पुंस्त्वनिर्देशः प्राकृतत्वात्। तथा विहारे चत्वारो नामादयो निक्षेपाः। तत्र भावे द्विविधो भेदः । एष द्वारगाथासक्षेपार्थः ॥९६६ ॥
व्यासार्थं तु प्रतिपदमभिधित्सुः प्रथमतो द्विशब्दस्य षट्कनिक्षेपमाहनामं ठवणा दविए, खेत्ते काले य होइ बोधव्वो। भावे य दुगे एसो, निक्खेवो छव्विहो होइ ॥ ९६७ ॥ नामद्विकं स्थापनाद्विकम्, द्रव्ये द्रव्यविषयं द्विकं द्रव्यद्विकम्, एवं क्षेत्रद्विकं कालद्विकं
सूत्र-१ गाथा ९६५-९६८ निक्षेपाः द्विशब्दस्य
५१४ (B)
१. एतद्गाथायाः स्थाने लाडनू संस्करणे पृ. ९७ टि. ८ मध्ये (अ. स. प्रतिषु) एषा गाथोपलभ्यते"दुयग्गम्मि निवेखवो, उक्कोसा धम्मि ते य बारसगो । चउभेदो य विहारे, णेयव्वा आणुपुव्वीए ॥ खं भा. प्रतिषु भिन्ना गाथा उपलभ्यते इति पु. प्रे. मध्ये लिखितमस्ति।
For Private and Personal Use Only