________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२५ (B)
सचिवे राजपथादिषु क्रमेण पञ्चदशादि चतुर्लघुपर्यन्तं, तद्यथा- राजपथे सचिवं दृष्ट्वा | निवर्तमानस्य पञ्चदशरात्रिन्दिवानि, नगरद्वारे विंशतिः, उद्याने पञ्चविंशतिः, उद्यानसीम्नोरन्तराले मासलघु, सीम्नि मासगुरु,सीमाऽतिक्रमे चतुर्मासलघु। तथा पुरोधसि विंशत्यादि | प्रायश्चित्तमन्ते च चतुर्गुरुकम् । तद्यथा- राजपथे पुरोधसं दृष्ट्वा निवर्तमानस्य विंशतिरहोरात्राः, नगरद्वारे पंचविंशतिः, उद्याने मासलघु, उद्यानसीम्नोरपान्तराले मासगुरु, सीम्नि चतुर्मासलघु, सीमातिक्रमे चतुर्मासगुरु, कुमारे भिन्नमासादि यावत् षड् लघु, तद्यथा- राजपथे कुमारं दृष्ट्वा निवर्तमानस्य भिन्नो मासः, पञ्चविंशतिरहोरात्रा इत्यर्थः, नगरद्वारे मासलघु, उद्याने मासगुरु, उद्यानसीम्नोरपान्तराले चतुर्मासलघु, सीम्नि चतुर्मासगुरु, * सीमातिक्रमे षण्मासलघु ॥१२४४ ॥
कुलपुत्ते मासादी, छग्गुरुगं होइ अंतिमं ठाणं । इत्तो य दव्वकाले, संयोगमिमं तु वोच्छामि ॥ १२४५ ॥ कुलपुत्रे मासादि मासलघ्वादि प्रायश्चित्तं क्रमेण तावद् द्रष्टव्यं यावदन्तिमं स्थानं |
गाथा १२४०-१२४५
पश्चाद्वलने प्रायश्चित्तनानात्त्वम्
६२५ (B)
For Private and Personal Use Only