SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६२५ (A) तामेवाऽऽह- रायाणमित्यादि, एषा हि राजादिकं द्रव्यं, नृपपथादिकं[च] क्षेत्रमधिकृत्योच्यते, इतीयं द्रव्य-क्षेत्रसंयोगजा विशोधिः। तत्र यदि राजानं राजपथे दृष्ट्वा निवृत्तस्ततः तस्य पञ्चकं पञ्चरात्रिन्दिवं प्रायश्चित्तम्। एवं क्षेत्रं राजपथमादि कृत्वा राज्येव द्रव्ये पञ्चकादि प्रायश्चित्तं क्रमेण तावद् वक्तव्यं यावत् क्षेत्रतः सीमातिक्रान्ते राज्ञि प्रायश्चित्तं यावन्मासः। तद्यथा- नगरद्वारे राजानं दृष्ट्वा निवर्तमानस्य दश रात्रिन्दिवानि, उद्यानान्निवर्तमानस्य पञ्चदश, उद्यानस्य सीम्नश्चान्तराद् विंशतिकं, सीम्नो निवर्तमानस्य || पञ्चविंशतिकं, सीमातिक्रान्तं राजानं दृष्ट्वा निवर्तमानस्य मासलघु। युवराजं द्रव्यं नृपपथादि क्षेत्रगतं दृष्ट्वा निवर्तमानस्य दशरात्रिन्दिवादिकं प्रायश्चित्तं क्रमेण तावद्वक्तव्यं यावदन्ते मासगुरु भवति। तच्चैवं- राजपथे युवराजं दृष्ट्वा निवर्तमानस्य दश रात्रिन्दिवानि, नगरद्वारे पञ्चदश, उद्याने विंशतिः, उद्यानसीम्नोरपान्तराले पञ्चविंशतिः, सीम्नि मासलघु सीमातिक्रमे मासगुरु ॥१२४३॥ सचिवे पन्नरसादी, लघुकं तं वीसमादि उ पुरोहे। अंतम्मि उ चउगुरुगं, कुमारे भिन्नादि जा छाउ (छलहु) ॥ १२४४ ॥ | १. "मादिं कृत्वा राज्ये च द्रव्ये - पु. प्रे. ॥ गाथा १२४०-१२४५ पश्चाद्वलने प्रायश्चित्तनानात्त्वम् ६२५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy