________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२४ (B)
___ यदि प्रथमे दिवसे निवर्तते ततस्तस्मिन् प्रथमदिवसे निवर्तमाने लघुको मासलघु प्रायश्चित्तम्। एवं यावद् दशभिर्दिवसैः स्वपदं दशमं प्रायश्चित्तं भवति। तद्यथाद्वितीये दिवसे निवर्तमानस्य मासगुरु, तृतीये दिवसे चतुर्मासलघु, चतुर्थे दिवसे चतुर्मासगुरु, पञ्चमे षड् लघु, षष्ठे षड् गुरु, सप्तमे छेदः, अष्टमे मूलं, नवमेऽनवस्थाप्यं, दशमे पाराञ्चितमिति, एषा काले कालविषया शोधिः। भावतो वक्ष्यमाणा। सम्प्रत्यत उर्ध्वं द्रव्ये क्षेत्रे काले च यः संयोगः तस्मिन् वक्ष्ये।। १२४१ ॥
प्रतिज्ञातमेव निर्वाहयतिदव्वस्स य खेतस्स य, संजोगे होइमा पुण विसोही। रायाणं रायपहे, दटुं जा सीमतिक्कंते ॥ १२४२॥ पणगादी जा मासो, जुवरायं निवपहादि दट्ठणं। दस राइंदियमाई, मासगुरु होइ अंतम्मि ॥ १२४३ ॥ द्रव्यस्य च क्षेत्रस्य च संयोगे सम्बन्धे पुनरियं वक्ष्यमाणा भवति विशोधिः।
गाथा १२४०-१२४५
पश्चाद्वलने प्रायश्चित्तनानात्त्वम्
६२४ (B)
For Private and Personal Use Only