________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशक:
६२४ (A)
खेत्ते निवपहनगरद्दारे उजाणे परेण सीमऽतिकते। पणगादी जा लहुओ, एएसु य सनियत्तंते ॥ १२४० ॥
क्षेत्रे क्षेत्रविषया एतेभ्यः सन्निवर्तमाने एएसुत्ति गाथायां सप्तमी पञ्चम्यर्थे। केभ्यः सन्निवर्त्तमाने? इत्यत आह-निवपहेत्यादि, अत्रापि सप्तमी पञ्चम्यर्थे, ततोऽयमर्थ:नृपपथात् , नगरद्वारात्, उद्यानात् , परतः सीम्नोऽर्वाक्, तथा सीम्नः, सीमातिक्रमतः । किंप्रमाणा शोधिः? अत आह - पञ्चकादिका यावल्लघुको मासः, इयमत्र भावनाराजपथान्निवर्त्तमानस्य पञ्चरात्रिन्दिवानि, नगरद्वारान्निवर्तमानस्य दश, उद्यानात्पञ्चदश, उद्यानात्परतः सीम्नोऽर्वाक् निवर्तमानस्य विंशतिरहोरात्राः, सीम्नो भिन्नमासः, सीमानमतिक्रम्य मासलघु ॥१२४०॥
सम्प्रति कालतः शोधिमाहपढमदिणनियत्तंते, लहुओ दसहि सपदं भवे काले। संजोगे पुण एत्तो, दव्वे खेत्ते य काले य ॥ १२४१ ॥
गाथा १२४०-१२४५
पश्चाद्वलने प्रायश्चित्तनानात्त्वम्
६२४ (A)
For Private and Personal Use Only