________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
द्वितीय
उद्देशकः ६२३ (B)
लघुकतरम्? अत्र सूरिराह-चोदक! येन कारणेनेत्थं प्रायश्चित्तनानात्वं तत्कारणमिदं वक्ष्यमाणं शृणु ।।१२३८॥
एतदेवाहदीसइ धम्मस्स फलं, पच्चक्खं तत्थ उज्जमं कुणिमो। इड्डीसु पयणुवीसु वि, सज्जते होति नाणत्तं ॥ १२३९ ॥
दृश्यते खलु धर्मस्य फलं प्रत्यक्षं साक्षात्तस्मात्तत्र धर्मे वयमुद्यम कुर्मः। एवमृद्धिषु : राजप्रभृतिसम्बन्धिषु प्रतन्वीष्वपि यथाक्रमं हीयमानहीयमानतरास्वपि सज्यते सङ्गमुपयाति । यथा यथा चाल्पाऽल्पतरास्वपि ऋद्धिषु सङ्गमुपपद्यते तथा तथा लक्ष्यते तीव्रा तीव्रतरा तस्य भोगासक्तिरित्युक्तेन प्रकारेण भवति नानात्वं प्रायश्चित्तनानात्वमिति। अपरे त्वियं | भावविशोधिरिति प्रतिपन्नाः ।। १२३९ ।।
सम्प्रति क्षेत्रतः शोधिमभिधित्सुराह
X
गाथा १२३५-१२३९ अवधावने शोधिः
६२३ (B)
१. चूर्णिकार इत्यर्थः-पु. प्रे. पार्श्वभागे॥
For Private and Personal Use Only