________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशक: ६२३ (A)
www.kobatirth.org
कथमेतद्विषया द्रव्यशोधि: ? अत आह
एएसिं रिद्धीतो, दğ लोभाओ सन्नियत्तंते । पणगादीया सोही, बोधव्वा मासलहुअंता ॥। १२३७ ॥
एतेषां राजादीनाम् ऋद्धीर्दृष्ट्वा 'अहो ! धर्मस्य फलं साक्षादुपलभ्यते । तस्मादहमपि करोमि धर्ममिति' लोभाद् भोगाभिष्वङ्गरूपात् सन्निवर्तमाने षष्ठी - सप्तम्योरर्थं प्रत्यभेदात् सम्यग् निवर्त्तमानस्य बोधव्या शोधिः पञ्चकादिका मासलघुपर्यन्ता । तद्यथा राजानं स्फीतिमन्तमुपलभ्य 'अहो धर्मप्रभावतः कथमेष स्फीतिमान् ? तस्मान्न त्यजामि धर्ममिति निवर्तमानस्य पञ्चरात्रिन्दिवानि शोधिः, युवराजं दृष्ट्वा निवर्तमानस्य दशरात्रिन्दिवानि, अमात्यं दृष्ट्वा पञ्चदश, पुरोहितं विंशतिः, कुमारं पञ्चविशतिः, कुलपुत्रं मासलघुकमिति ॥ १.२३७ ॥
चोएती कुलपुत्ते, गुरुगतरं रायाणो य लहुगतरं ।
पच्छित्तं किं कारण, भणियं ? सुण चोयग ! इमं तु ॥ १२३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पर्द्धिके दृष्टे निवर्तमानस्य गुरुतरं प्रायश्चित्तं भणितं दर्शितम् ?, राज्ञो महर्द्धिकस्य दर्शनात् प्रतिनिवर्तमानस्य
For Private and Personal Use Only
गाथा
१२३५-१२३९ अवधावने
शोधि:
६२३ (A)