________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६२२ (B)
कुर्म इति स्वयमेव परिभाव्य विनिवृत्तानाम् इयं वक्ष्यमाणा चतुर्विधा चतुष्प्रकारा शोधिः प्रायश्चित्तं भवति ।।१२३५ ॥
तामेवाहदव्वे खेत्ते काले, भावे सोही उ तत्थिमा दव्वे। राया जुवे अमच्चे, पुरोहियकुमार कुलपुत्ते ॥ १२३६ ॥
द्रव्ये द्रव्यतः क्षेत्रतः कालतो भावतश्च। तत्र तासु चतसृषु शोधिषु मध्ये द्रव्ये | द्रव्यविषया इयं वक्ष्यमाणा अन्ये पुनरिदं वदन्ति-द्विविधाः द्रव्यतः शोधिः सचित्तविषया अचित्तविषया च। तत्र सचित्तविषया "छक्काय चउसु लहुगा" [ ] इत्यादिका पूर्ववर्णिता, अचित्तविषया उद्गमोत्पादनादिदोषनिष्पन्ना यच्चाकल्पिकं यच्च कल्पनीयमपि सूत्रेण प्रतिषिद्धं तद्विषया सर्वापि शोधिर्द्रव्यत इति, भाष्यकार: स्वप्रतिज्ञातां द्रव्यशोधिमाहराया इत्यादि, राजा प्रतीतः, तस्मिन् युवराज्ये अमात्ये पुरोहिते कुमारे कुलपुत्रे द्रव्यशोधिरिति वाक्यशेषः ।।१२३६॥
गाथा १२३५-१२३९ अवधावने शोधिः
६२२ (B)
१. चूर्णी १२३७-१२३८ गाथाद्वयं नास्ति । १२३६ गाथायामपि भिन्नता अस्ति -प. प्रे. टि.॥
For Private and Personal Use Only