SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः । ६२६ (A) षड्गुरुकं भवति, तद्यथा- राजपथे कुलपुत्रं दृष्ट्वा निवर्तमानस्य मासलघु, नगरद्वारे मासगुरु, उद्याने चतुर्लघु, उद्यानसीम्नोरपान्तराले चतुर्गुरु, सीम्नि षण्मासलघु, सीमातिक्रमे षण्मासगुरु, तदेवं द्रव्य-क्षेत्रसंयोग उक्तः। इत ऊर्ध्वं द्रव्ये च काले च संयोगमिमं वक्ष्यमाणं वक्ष्यामि ।।१२४५ ॥ यथाप्रतिज्ञातमेव निर्वाहयति रायाणं तद्दिवसं, दट्ठण नियत्ते होति मासलहुँ। दसहिं दिवसेहिं, सपयं जुयरण्णादि अतो वोच्छं ॥ १२४६ ॥ राजानं दृष्ट्वा तस्मिन् दिवसे यदि प्रतिनिवर्तेत, न तु अवधावनानन्तरं तत्क्षणमेव तदा तस्य मासलघु प्रायश्चित्तम् , एवं क्रमेण तावद्वक्तव्यं यावद्दशभिर्दिवसैः स्वपदं दशमं । प्रायश्चित्तं भवति। तद्यथा-द्वितीये दिवसे राजानं दृष्ट्वा निवर्तमानस्य मासगुरु, तृतीये दिवसे | चतुर्मासलघु, चतुर्थदिवसे चतुर्मासगुरु, पञ्चमे षण्मासलघु, षष्ठे षण्मासगुरु, सप्तमे छेदः, 3 अष्टमे मूलं, नवमेऽनवस्थाप्यं, दशमे पाराञ्चितम्। साम्प्रतमत उर्ध्वं युवराजादिमधिकृत्य : वक्ष्यामि।।१२४६ ॥ गाथा १२४६-१२४९ पश्चाद्वलने प्रायश्चित्तनानात्त्वम् ६२६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy