________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६२० (B)
'भिक्खू य गणाओ अवक्कम्म ओहाणुप्पेही वजेज्जा' इत्यादि अथास्य सूत्रस्य कः सम्बन्धः? तत आह
छोभगदिण्णो दाउं, व छोभग सेवियं व तदकिच्चं। सच्चाओ व असच्चं, ओहावणसुत्तसंबंधो ॥ १२३२ ॥
छोभकमभ्याख्यानं दत्तं यस्मिन् स छोभकदत्तः, क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, सोऽवधावनप्रेक्षी भवेत्। इयमत्र भावना-यस्याभ्याख्यानमदायि स 'कथमहमेवमसताऽभ्याख्यानेनाभ्याख्यातः? कथं वा साम्प्रतमेवमलीककलङ्काङ्कितो जनानां पुरत एवमात्मानं दर्शयामि? इत्यवधावनप्रेक्षी गच्छेत्। अथवा येनाभ्याख्यानं दत्तं स चिन्तयति, यथा- असदभ्याख्यानमेतस्मै दत्तमेतत्, तच्च बहुभिर्जनैतिं यथाअनेनासदभ्याख्यानमस्मै दत्तमिति, ततः कथमहमेतेषां पुरतः तिष्ठामि! इत्येवं छोभकमभ्याख्यानं दत्त्वा लज्जया अवधावनप्रेक्षी गच्छेत्। यदि वा तदकृत्यं मैथुनरूपं मोहोदयेन | १. वच्चेज-पुप्रे.॥ २. स्थोभक' मु. ॥
सूत्र २५,
गाथा १२३२-१२३४
अवधावने सामाचारी
६२० (B)
For Private and Personal Use Only