________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१९ (B)
मिथ्यावादी? इति तत्र यद्देवता ब्रूते तत्प्रमाणम् ॥१२३० ॥ एतेन तप इति द्वारं व्याख्यातम् २। अधुना सङ्घद्वारं व्याचिख्यासुरिदमाहकिंचि तहाऽतह दीसइ, चउभंगे पंतदेवया भद्दा।
अन्नीकरेइ मूलं, इयरे सच्चप्पतिण्णा उ ॥ १२३१ ॥ __ पूर्वप्रकारेणाज्ञायमाने भूतार्थे सङ्घसमवायं कृत्वा तस्मै आवेद्यते। रत्नाधिको वदति- : नाहं कृतवान् प्रतिसेवनाम्, इतरो ब्रूते- द्वावपि प्रतिसेवितवन्ताविति, तत्र किं कर्तव्यम् ? | | इति तत एवमावेदने कृते ये सङ्घमध्ये गीतार्थास्ते वदन्ति किञ्चित्तथाभावं तथाभावेन दृश्यते १। किञ्चित्तथाभावमन्यथाभावेन दृश्यते २, किञ्चिदन्यथाभावं तथाभावेन ३, किञ्चिदन्यथाभावमन्यथाभावेन ४ एषा चतुर्भङ्गी। अस्यां च चतुर्भङ्गयां प्रथमो भङ्गः प्रतीतः, द्वितीयभङ्गभावना त्वेवम्- कोऽपि क्वापि वनप्रदेशे परस्त्रिया सह वर्त्तते, तस्मिंश्च प्रदेशे केचिदारक्षका अपन्यायाक्षमा असिव्यग्रहस्ता वल्गन्ति । ततः काचिद्देवता भद्रिका मा विनश्यत्वेष पुरुष इति तो दूरान्तरितौ दर्शयति। तृतीयभङ्गे भगवतो वर्द्धमानस्वामिनः सागारिकमकषायितं सङ्गमकः कषायितं दर्शयति। चतुर्थभङ्गः कस्याञ्चिद्विपदि दासं राज्ञा |
गाथा १२२८-१२३१ अभ्याख्याने उपाया:
६१९ (B)
For Private and Personal Use Only