________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१९ (A)
तथा चाहसेहोत्ति मं भाससि निच्चमेव, बहूण मज्झम्मि व किं कहेसि?। दारं १। अभासमाणाण परोप्परं वा, दिव्वाणमुस्सग्गतवस्सी कुज्जा ॥१२३०॥ *
दारं २।। नित्यमेव सर्वकालमेव पदे पदे हा दुष्टशैक्षक इति मां भाषसे, तेन त्वमसताऽभ्याख्यानेनाऽभ्याख्यातः। अथ स रत्नाधिकस्तमवमरत्नाधिकं ब्रूयात्-“यदि मया कयापि युवत्या सह कृतमकार्यं ततः किं त्वया बहूनां मध्ये अहमेवमाख्यातोऽनेन कृता |* प्रतिसेवनेति? किन्त्वहमेवैकान्ते वक्तव्यो भवामि- यथा दुष्कृतमालोचय गुरूणामन्तिके | इति, मम रोषेण त्वयात्मीयमपि विगोपितम्," एवं सद्भावो ज्ञायते। एतावता "आवस्सग || १२२८-१२३१
अभ्याख्याने आउट्टणसब्भावे वा" [गा.१२२९] इति व्याख्यातम्१ । इदानीमसद्भावे इति व्याख्यानयति।
उपायाः अभासमाणाण परोप्परं वा इति। अथ कदाचित्तौ रोषतः परस्परं न संलपतः तदा तयोः परस्परमभाषमाणयोर्भूतार्थपरिज्ञानाभावे तपस्वी क्षपको देवताराधनार्थं कायोत्सर्गं कुर्यात्। ६१९ (A) कायोत्सर्गेण च देवतामाकम्प्य पृच्छति- कोऽनयोर्द्वयोर्मध्ये सम्यग्वादी को वा |
गाथा
For Private and Personal Use Only