________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
अट्ठिगमादी वसभा, पुदि पच्छा व जंति निसि सुणणा। श्री
आवस्सग आउट्टणसब्भावे वा असब्भावे ॥ १२२९ ॥ व्यवहार
अस्थिकाः- कापालिकाः, आदिशब्दात् सरजस्कादिपरिग्रहः, तद्रूपाः सन्तः, किमुक्तं : द्वितीय भवति? कापालिकवेषं वा सरजस्कवेषं वा यदि वा मायासूनवीयं वेषं कृत्वा यस्यां वसतौ उद्देशकः
तौ द्वावपि जनौ तिष्ठतस्तत्र पूर्वं वृषभा गच्छन्ति, यदि वा तयोर्गतयोः पश्चात्तत्र च गत्वा | ६१८ (B)| रात्रौ मातस्थानेन सप्ता इव तिष्ठन्तो द्वयोरपि तयोः परस्परमुल्लापं शृण्वन्ति। तयोश्चा- |
ऽऽवश्यकं कर्तुकामयोर्योऽसाववमरत्नाधिकोऽभ्याख्यानदाता स इतरं प्रति मिथ्यादुष्कृते. नोपस्थितः एतद्वदति त्वं मया असताऽभ्याख्यानेनाभ्याख्यातः, मिथ्यादुष्कृतमिति। ततो |* रत्नाधिको ब्रूते- किं नाम तवापकृतं मया येनाऽसदभ्याख्यानं मे दत्तम्? इति अवमरत्नाधिको भाषते-त्वं नित्यमेव यत्र तत्र वा कार्य सम्यक् प्रवर्त्तमानमपि हे दुष्टशैक्षक! इति तर्जयसि तेन मया त्वमसदभ्याख्यानेनाभ्याख्यातः एवम् आवश्यके आवश्यकवेलायामावर्त्तने भावप्रत्यावर्त्तने अलीकाभ्याख्याने सद्भावो ज्ञायते। अथ न परस्परासम्भाषणतः सद्भावो ज्ञायते, तदा असद्भावे सद्भावपरिज्ञानाभावे तपस्वी प्रष्टव्य इति शेषः ।। १२२९॥
गाथा १२२८-१२३१ अभ्याख्याने उपायाः
६१८ (B)
For Private and Personal Use Only