________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देश :
६१८ (A)
www.kobatirth.org
दोहंपि अणुमणं, चरियावसहे पुच्छियपमाणं ।
अन्नत्थ वसह तुब्भे, जा कुणिमो देवउस्सग्गं ॥ १२२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं तयोर्द्वयोरपि विवदतोरेवमुच्यते - चरिका पृच्छ्यतां, यत्सा वक्ष्यति तत्प्रमाणयिष्यते, एवमुक्ते यदि तौ द्वावप्यनुमन्येते- ततो द्वयो: अनुमतेन सम्मत्या इत्यर्थः वृषभाश्चरिकां प्रष्टुं प्रेष्यन्ते ते च तत्र गताः प्रथमतश्चरिकां प्रज्ञापयन्ति, प्रज्ञाप्य पृच्छन्ति किमत्र सत्यम् अलीकं वा? एवं वृषभैश्चरिका पृष्टा सती यद् ब्रूते तत्प्रमाणं कर्तव्यम् । तत्र चरिकयोक्तं भगवन्! अभ्याख्यानं तेन द्वितीयेन तस्मै दत्तमिति । एतच्चोक्तं वृषभा वसतावागत्य गुरवे निवेदयन्ति । तैर्यथावस्थिते निवेदिते यद्यभ्याख्याता वदति - निगूहयति चरिका, न सम्यक्कथयति । तदा गुरवो द्वावपि ब्रुवते - यूयमन्यत्र वसतिं याचयित्वा तत्र वसथ, यावदद्य रात्रौ देवताराधनार्थं कायोत्सर्गं कुर्मः । किमुक्तं भवति ? कायोत्सर्गेण देवतामाकम्प्य पृच्छामः कोऽत्र सत्यवादी ? को वाऽलीकवादी ? इति एवमुक्ते तौ द्वावपि वसत्यन्तरे गतौ ॥१२२८ ॥ अत्रान्तरे कापालिकद्वारोपनिपात इति तदभिधित्सुराह
For Private and Personal Use Only
गाथा
१२२८-१२३१ अभ्याख्याने
उपायाः
६१८ (A)