________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय
उद्देशकः
६१६ (B)
अथवा इत्यभ्याख्यानस्य प्रकारान्तरताप्रदर्शने। कुडङ्गादौ कडिल्लदेशे गहनप्रदेशे उच्चाराय गतः। तत्र च ज्येष्ठार्येण सह मयापि कृतमकार्यमिति। तस्माद् व्रतानि मम साम्प्रतमारोपयत ॥ १२२४ । एवमुक्ते सूरिभिः स एवं वक्तव्यः
तम्मागते वयाई, दाहामो देंति वा तुरंतस्स। भूयत्थे पुण नाए, अलियनिमित्तं न मूलं तु ॥ १२२५ ॥
योऽसौ त्वया अभ्याख्यातः स यदा आगतो भविष्यति तदा तस्मिन्नागते व्रतानि ते दास्यामः। अथ स त्वरमाणो ब्रूते- 'भगवन्! कुशाग्रस्थितवाताहतजलबिन्दुरिवातिचञ्चलं जीवितमिति न शक्यते क्षणमात्रमप्यव्रतेन स्थातुमित्यधुनैव मह्यं दीयतां व्रतादीनीति । तस्यैवं त्वरमाणस्य ददति व्रतानि। वाशब्दो विकल्पार्थः। अत्र पुनर्भूतार्थो गवेषणीयः- किमयं सत्यं ब्रूते उताऽलिकं ? तत्र यथा भूतार्थो गवेषणीयस्तथानन्तरमेव वक्ष्यते। भूतार्थे च ज्ञाते यदि सत्यं तदा द्वयोरपि मूलं दीयते, अथालीकं ततो योऽभ्याख्यातः स शुद्धः इतरस्य
गाथा १२२३-१२२७ अभ्याख्याने उपाय
६१६ (B)
१. रपि व्रतं दी वा. मो. पु. ॥
For Private and Personal Use Only