________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१६ (A)
अस्मिन्नार्यादेवकुले वृक्षविषमे वा प्रथमालिकां कृत्वा पानीयं पास्याम इति, एवं चिन्तयित्वा तौ तदभिमुखं प्रस्थितौ। अत्रान्तरे अवमरत्नाधिक: परिव्राजिकामेकां तदभिमुखमागच्छन्ती दृष्ट्वा स्थितः, लब्ध एष इदानीमिति चिन्तयित्वा तं रत्नाधिकं वदति-अहो ज्येष्ठार्य! कुरु त्वं प्रथमालिकां पानीयं वा पिब, अहं पुनः संज्ञां व्युत्स्रक्ष्यामि, एवमुक्त्वा त्वरितं वसतावागत्य मैथुने अभ्याख्यानं ददद् आलोचयति । तथा चाह-देउले इत्यादि, देवकुले आर्यादेवगृहादौ कुडङ्गे वा वृक्षविषमे प्रदेशे मैथुने अभ्याख्यानं दातुं वसतावागत्य आलोचयति ॥ १२२२॥ यथा आलोचयति तथा दर्शयति
जेट्ठज्जेण अकजं, सजं अजाघरे कयं अज। उवजीवितो थ भंते! मए वि संसट्ठकप्पोऽत्थ ॥ १२२३॥
ज्येष्ठार्येणाद्य सद्यः इदानीमागृहे [अकार्यं ]मैथुनासेवालक्षणं [कृतं ]ततो भदन्त | तत्संसर्गतो मयापि संसृष्टकल्प: मैथुनप्रतिसेवा अत्राऽस्मिन् प्रस्तावे उपजीवितः ॥१२२३ ॥
अहवा उच्चारगतो, कुडंगमादीकडिल्लदेसम्मि। बेत्ती कयं अकजं, जेजेणं सह मएवि ॥ १२२४॥
गाथा १२२३-१२२७ अभ्याख्याने उपाय
६१६ (A)
For Private and Personal Use Only