________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१५ (B)
xxxx
अधुना नियुक्ति-भाष्यविस्तरः। तत्र भिक्षाचर्या-विचारभूमिगमन-विहारादिषु यो रत्नाधिकतरः कुतश्चिद्दोषादवमो जातः स तमवमरत्नाधिकं यैः कारणैरभ्याख्यानेन दूषयति तानि प्रतिपादयिषुराह
रायणियवायएणं, खलिय-मिलित-पेल्लणाए उदएणं। देउल मेहुण्णमि य, अब्भक्खाणं कुडंगम्मि ॥ १२२२॥
रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण अवमरत्नाधिकं दशविधचक्रवालसामाचार्यामस्खलितमपि कषायोदयेन तर्जयति, यथा- 'हे दुष्टशैक्षक! स्खलितोऽसीति,' तथा ऐर्यापथिकी प्रतिक्रम्य प्रथममेव परावर्तयन्तं यदि वा अग्रिमतरपदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं 'हा दुष्टशैक्षक! मिलितमुच्चारयसीति तर्जयति तथा पेल्लणत्ति अन्यैः साधुभिर्वार्यमाणोऽपि कषायोदयतस्तं हस्तेन प्रेरयति तर्जयति। ततः सोऽवमरत्नाधिक: कषायितः सन् चिन्तयति-एष रत्नाधिकवातेनेत्थं बहुजनसमक्षं तर्जयति। अथ चैषा सामाचारी 'रत्नाधिकस्य सर्वं क्षन्तव्यमिति, तत् तथा करोमि यथैष मम लघुको भवति। एवं चिन्तयित्वा तौ द्वावपि भिक्षाचर्यायै गतौ, तौ च तृषितौ बुभुक्षितौ चेत्येवं चिन्तितवन्तौ
गाथा १२२०-१२२२ अभ्याख्याने सामाचारी
६१५ (B)
For Private and Personal Use Only