________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१५ (A)
܀܀܀܀܀܀
कारणेन चारित्रप्रतिकूलक्रियासेवनाभाग् जात इति। अथ स कस्मादात्मानं प्रतिसेवितवन्तमभ्युपगच्छति ? न परस्यैव केवलस्याभ्याख्यानं ददाति? तत आह- पच्चयहेउं चेत्यादि, परेषामाचार्याणामन्येषां च साधूनामेष सत्यं वदति, अन्यथा को नामाऽऽत्मानं प्रतिसेवितवन्तमभिमन्यते? इति प्रत्ययो विश्वासः स्यादिति हेतोः स्वयमपि च प्रतिसेवितमिति भणति ॥ १२२१ ॥
एवमुक्ते यस्याभ्याख्यानमदायि स प्रष्टव्यः- 'किं भवान् प्रतिसेवी न वा?' तत्र यदि स वदेत् प्रतिसेवी, ततः स परिहारप्राप्तः स्यात् ,परिहारतपोभाक् क्रियते, उपलक्षणमेतत्, । छेदादिप्रायश्चित्तभागपि क्रियते इति द्रष्टव्यः। अथ स वदेत् 'नाहं प्रतिसेवी'ति तर्हि न | परिहारप्राप्त: स्यात् परिहारतप:प्रभृतिप्रायश्चित्तभाक् न क्रियते इति भावः। स च प्रतिसेवी * [अप्रतिसेवी]वा यदाऽभ्याख्यानदाता[तदा]से तस्य प्रतिसेवनायां प्रमाणं चरिकादिर्वक्ति, तस्मात्प्रमाणात् गृहीतव्यो निश्चेतव्यः, से अथ किं कस्मात्कारणादेवमाहुर्भवन्तो हे भदन्त! सूरिराह- सत्यप्रतिज्ञा व्यवहारास्तीर्थकरैः दर्शिताः। ततो न यथाकथञ्चित्प्रतिसेवी अप्रतिसेवी वा क्रियते। एष सूत्राक्षरार्थः ॥
गाथा १२२०-१२२२ अभ्याख्याने सामाचारी
६१५ (A)
For Private and Personal Use Only