________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशक :
६१४ (B)
www.kobatirth.org
पीतिय पडिवक्खो वा, अचियत्तं तेण छोभगं देज्जा । पच्चयहेउं च परे, सयं च पडिसेवियं भणइ ॥ १२२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अधस्तनानन्तरसूत्रे ऽभिहितमिदं यथा तस्य गणस्य प्रीतिकं भवति तथोपस्थापनीयः, तस्य च प्रीतिकस्य प्रतिपक्षः वाशब्दः सम्बन्धप्रकारान्तरतोपदर्शने अचियत्तम् अप्रीतिकम् “अचियत्तं ति वा अपीतियंति वा एगट्ठ" [चूर्णौ ] इति वचनात् । तेन चाऽप्रीतिकेन छोभकम् अभ्याख्यानं दद्यादिति पूर्वसूत्रादनन्तरमस्य अभ्याख्यानसूत्रस्योपनिपातः, अनेन सम्बन्धेनायातस्यास्य व्याख्या
द्वौ साधर्मिकौ साम्भोगिकावेकत एकेन सङ्घाटकेन विहरतः । तत्र तयोर्द्वयोर्मध्ये एक इतरस्याऽभ्याख्याऩप्रदाननिमित्तमन्यतरदकृत्यस्थानं मैथुनादिकं प्रतिसेव्य प्रतिसेवितमभ्युपगम्य गुरूणामन्तिके आलोचनाप्रकारमाह- अहं णं इति वाक्यालङ्कारे भदन्त ! अमुकेन साधुना सार्धमस्मिन् कारणे मैथुनादिके प्रतिसेवी, किमुक्तं भवति ? तेन तेन मैथुनादिना १. वा. मो. पु. मु. । उत्थापिताः - पु. प्रे. ।।
For Private and Personal Use Only
गाथा
१२२०-१२२२ अभ्याख्याने
सामाचारी
६१४ (B)