________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६१० (A)
܀܀܀܀܀
www.kobatirth.org
कहणाऽऽउट्टण आगमण, पुच्छणं दीवणा य कज्जस्स । वीसज्जियंति य मया, होसुस्सलितो भणति राया ॥ १२०८ ॥
कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनप्रभावना भवति । तत आवर्तनम् आकम्पनं राज्ञो भक्तीभवनमिति भावः । तदनन्तरम् आगमनप्रच्छनम् आगमनकारणस्य प्रश्र: । 'केन प्रयोजनेन यूयमत्राऽऽगताः स्थ?' अत्रान्तरे येन कार्येण समागतस्तस्य दीपना प्रकाशना, ततो राजा हासुस्सलितो त्ति हासेन युक्त उत्सृतः - हृष्टो हासोच्छ्रितः हसितमुखः प्रहृष्टश्च सन्नित्यर्थः । भणति यथा- मया विसर्जितं मुत्कलितमिति ॥ १२०८ ॥
अथ किं तत्कार्यं यस्य राज्ञा मुत्कलनं कृतम् ? इत्यत आहवायपरायणकुवितो, चेइय२तद्दव्व३ संजती गहणे ४ । पुव्वत्ताण चउण्ह वि, कज्जाण हविज्ज अन्नयरं ॥ १२०९ ॥
१. हासुस्सिनो - मु. हासुस्सितो आहोर ६४ ॥ २. हासोत्कलितो आहोर ६४ ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गाथा
१२०८-१२१३ अनवस्थाप्ये
सामाचारी
६१० (A)