________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०९ (B)
समणाणं पडिरूवी, जं पुच्छसि राय तं कहमहं ? ति । निरतीयारा समणा, न तहाऽहं तेण पडिरूवी ॥१२०६ ॥ [बृ.क.भा.५०५०]
यत्त्वं राजन् पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरूपी? इति तदहं कथयामि, यथा श्रमणा भगवन्तो निरतिचाराः, न तथाहं, तेन श्रमणानां प्रतिरूपी, न तु साक्षात श्रमण इति॥ १२०६॥
प्रतिरूपित्वमेव भावयतिनिजूढोमि नरीसर, खेत्ते वि जईण अच्छिउं न लभे।
अतियारस्स विसोहिं, पकरेमि पमायमूलस्स ॥१२०७ ॥ [बृ.क.भा.५०५१] .
हे नरेश्वर पृथिवीपते! प्रमादमूलस्याऽतिचारस्य सम्प्रति विशोधिं प्रकरोमि, तां च | । कुर्वन् नियूँढोऽस्मि निष्कासितोऽस्मि। तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुं न | लभे, ततः श्रमणप्रतिरूप्यहमिति ॥ १२०७ ।।
राजा प्राह- 'कस्त्वया कृतोऽतीचार:? का च तस्य विशोधिः?' एवं पृष्टे यत्कर्तव्यं तदाह
गाथा १२०१-१२०७ अनवस्थाप्ये सामाचारी
६०९ (B)
For Private and Personal Use Only