________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६०९ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तं साधुं प्रविष्टं सन्तं राजा पूजयित्वा शुभासनस्थं शुभे आसने निषण्णम् आगतकुतूहलः। समुत्पन्नकुतूहलोऽप्राक्षीत्। कान् ? इत्याह-प्रश्नान् उदारान् गम्भीरार्थान् कदाचिदपि अश्रुतान् प्रतिहाररूपिन् इत्येवमादिकान्। स चापि साधुरेवंपृष्टः पार्थिवस्याऽऽचष्टे ।। १२०४॥ किमाचष्टे? इत्याह
जारिसया आतरक्खा, सक्कादीणं न तारिसो एसो। तुह रायदारपालो, तं पिचक्कीण पडिरूवी ॥१२०५ ॥ [बृ.क.भा.५०४९]
यादृशकाः खलु शक्रादीनाम् आदिशब्दात् चमरादिपरिग्रहः, आत्मरक्षा न तादृश एष तव राजन्! द्वारपालः तत उक्तं हे प्रतिहाररूपिन् ! तथा त्वमपि यादृशश्चक्री चक्रवर्ती तादृशो न भवसि, रत्नाद्यभावात्,अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या। किन्तु प्रताप-शौर्य-न्यायानुपालनादिना तत्प्रतिरूपोऽसि, तत उक्तं 'राजरूपिणं ब्रूहि' चक्रवर्तिप्रतिरूपमित्यर्थः ॥ १२०५ ॥
एवमुक्ते राजा प्राह- 'त्वं कथं श्रमणानां प्रतिरूपी ?' तत आह
गाथा १२०१-१२०७ अनवस्थाप्ये सामाचारी
६०९ (A)
For Private and Personal Use Only