________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०८ (A)
अच्छउ महाणुभागो, जहासुहं गुणसयागरो संघो। गुरुगं पि इमं कजं, मं पप्प भविस्सए लहुयं ॥१२०१॥ [बृ.क.भा.५०४५]
तिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य स तथा गुणशतानामनेकेषां गुणानामाकरो निधानं गुणशताकरः सङ्घः, यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयाऽपि साधन इति भावः ॥१२०१॥
एवमुक्तः सोऽनुज्ञातः सन् यत्करोति तदेवाहअभिहाण-हेतुकुसलो, बहूसु नीराजितो विउसभासु। गंतूण रायभवणे, भणति तं रायदारद्धं ॥ १२०२ ॥ [बृ.क.भा.५०४६]
अभिधान-हेतुकुशलः इति अभिधानेषु शब्देषु हेतुषु साध्यगमकेषु साधनेषु कुशलो दक्षोऽभिधानहेतुकुशलः, शब्दमार्गे तर्कमार्गे चातीव क्षुण्ण इत्यर्थः। अत एव बहुषु विद्वत्सभासु नीराजितः निर्वटितः । इत्थंभूतः सन् राजभवने गत्वा तं राजद्वारस्थं
गाथा १२०१-१२०७ अनवस्थाप्ये सामाचारी
६०८ (A)
For Private and Personal Use Only