________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०७ (B)
क्षमाश्रमणा नायाताः' इति पृष्टो वा अथवा न पृष्टस्तथापि तत्कार्यं कारणं दीपयेत्-यथा अमुकेन कारणेन नायाता इति ॥ ११९९ ॥ जाणंता माहप्पं, सयमेव भणंति एत्थ तं जोग्गो। अत्थि मम एत्थ विसओ, अजाणते सो व ते बेति ॥ १२००॥
[बृ.क.भा.५०४४] ___ इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानामनागमनं पृष्टेनापृष्टेन वा दीपितं तदा न किमय॑न्यत्तेन पाराञ्चितादिना वक्तव्यम्, किन्तु गुर्वादेश एवोभाभ्यां यथोदितः सम्पादनीयः। अथ राज्ञां प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्याया अन्ये वा गीतार्थास्तस्य शक्तिं स्वयमवबुध्यन्ते, ततो जानन्तः स्वयमेव तस्य माहात्म्यं तं ब्रुवते, यथा अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः। अथ न जानते तस्य शक्तिं ततः स एव तान् अजानान् ब्रूते यथा- अस्ति ममात्र विषय इति । एतच्च स्वयमपाध्यायादिभिर्वा भणितो वक्ति ॥ १२००॥
गाथा ११९५-१२०० अनवस्थाप्यपाराञ्चितयोः ग्लानत्वे विधिः
६०७ (B)
१. "प्यनेन वा' वा. मो. पु. ॥
For Private and Personal Use Only