________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६०६ (B)
विशिष्टम् ? इत्याह- सप्रतिपृच्छं पृच्छा प्रश्नः, तस्याः प्रतिवचनं प्रतिपृच्छा, प्रत्युक्तौ प्रतिशब्दः, सह प्रतिपृच्छा यस्य तत् सप्रतिपृच्छं, सूत्रविषये अर्थविषये वा यद् येन पृष्टं तत्र प्रतिवचनमित्यर्थः दत्त्वा तत्सकाशमुपगम्य तस्य शरीरस्य वर्तमानीम् उदन्तं वहति। अल्पक्लामतां पृच्छतीति भावः। सोऽपि चाऽऽचार्यं समागतं 'मस्तकेन वन्दे' इति फेटावन्दनकेन वन्दते। शरीरस्य चोदन्तमूदवा यदि तपसा क्लाम्यति तत आश्वासयति। आश्वास्य च तदेव क्षेत्रं यत्र गच्छोऽवतिष्ठते तत्र समपगच्छति समागच्छति ॥ ११९७ कदाचिन्न गच्छेयुरपि तत्रेमानि कारणानि
गेलण्णेण व पुट्ठो१, अभिणवमुक्को ततो व रोगातोर। कालम्मि दुब्बले वा, कजे अण्णे व वाघातो४ ॥ ११९८ ॥
[बृ.क.भा.५०४१] इहैकस्यापि कदाचिदेकवचनं कदाचिच्च बहुवचनं सर्वस्यापि वस्तुन एकानेकरूपताख्यापनार्थमित्यदुष्टम्। स आचार्यो ग्लानत्वेन वा स्पृष्टः स्यात् ग्लानो भवेदिति भावः । १. ग्लान्येन - वा. मो. पु. मु. ॥
गाथा ११९५-१२०० अनवस्थाप्यपाराञ्चितयोः ग्लानत्वे विधिः
६०६ (B)
For Private and Personal Use Only