________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०४ (B)
गृहस्थतारूपस्य धर्म्यता धर्मादनपेता न्याय्या तस्यापाद्यमाना गृहस्थरूपतेति भावः ॥११९१॥ किं वेत्यादि, किं वा केन वा कारणेन तस्य न दीयते गृहिलिङ्गं ? दातव्यमेव तस्य गृहिलिङ्गमित्यर्थः। येन कारणेनाऽपरित्यक्तेऽपि द्रव्यलिङ्गे स्वलिङ्गे प्रतिसेवनात्। भावतो लिङ्ग विजढं परित्यक्तमिति॥ ॥११९२ ॥ सम्प्रति सूत्रकृदेवापवादमाह
सूत्रम्- "अणवठ्ठप्पं भिक्खं पारंचियं [वा] भिक्खुं गिहिभूयं वा अगिहिभूयं वा कप्पइ तस्स गणावच्छेदितस्स उवट्ठावेत्तए, जहा तस्स गणस्स पत्तियं सिया" इति ॥ २२॥ ___ अनवस्थाप्यं भिक्षु पाराञ्चितं वा भिक्षु गृहीभूतमगृहीभूतं वा कल्पते तस्य गणावच्छेदिन उपस्थापयितुं, कथम् ? इत्याह-यथा तस्य गणस्य प्रीतिकं प्रीतिकरमुपस्थापनं स्यात् तथा कल्पते, नान्यथा॥ __इह यो गृहस्थीभूतः स तावदुपस्थाप्यत एव, न तस्यापवादविषयता, यस्त्वगृहीभूतः सोऽपवाद-विषयः, तस्योत्सर्गतः प्रतिषिद्धत्वात्। तत्र यैः कारणैरगृहीभूतोऽप्युपस्थाप्यते तान्यभिधित्सुराह
सूत्र २३
गाथा ११९१-११९५ गृही अकरणे कारणानि
६०४ (B)
For Private and Personal Use Only