________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६०४ (A)
एके आचार्याः [लाटा:] एवं ब्रुवते-स्नानविवर्जं वरं नेपथ्यं तस्य क्रियते। अपरे दाक्षिणात्याः पुनरेवमाहुः वस्त्रयुगलमात्रं परिधाप्यते। ततः पर्षन्मध्ये आचार्यसमीपमुपगम्य ब्रूते- 'भगवन्! धर्म श्रोतुमिच्छामि', ततः कहणत्ति आचार्या धर्म कथयन्ति । कथिते च सति सकलजनसमक्षं ब्रूते- 'श्रद्दधामि सम्यग् धर्ममेनमिति मां प्रव्राजयत'। एवमुक्ते तस्य दीक्षा लिङ्गसमर्पणम्। लिङ्गसमर्पणानन्तरं च तत्क्षणमेवोपस्थाप्यते ॥ ११९० ॥
अत्र शिष्यः प्राह कस्मादेष गृहस्थावस्थां प्राप्यते? सूरिराह
ओहामितो न कुव्वइ, पुणो वि सो तारिसं अतीयारं। होइ भयं सेसाणं, गिहिरूवे धम्मिया चेव ॥ ११९१ ॥ किं वा तस्स न दिज्जति, गिहिलिंगं? जेण भावतो लिंग। अजढे वि दव्वलिंगे, सलिंगपडिसेवणा विजढं ॥ ११९२ ॥
अपभ्राजितो मानम्लानिमापादितः सन् पुनरपि स तादृशमतीचारं न करोति। शेषाणामपि च साधूनां भयमुत्पादितं भवति येन तेऽप्येवं न कुर्वते । तस्माद् गृहरूपे
सूत्र २३
गाथा ११९१-११९५ गृही अकरणे कारणानि
६०४ (A)
For Private and Personal Use Only