________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६०५ (A)
अंगिहीभूतो कीरइ, रायणुवत्तिए १पदुट्ठसगणो वार। परमोयावण३ इच्छा, दोण्ह गणाणं विवादो वा ४॥ ११९३ ॥ दारगाहा।
अगृहीभूतः अगृहस्थीभूतः सन् उपस्थाप्यः क्रियते राजानुवृत्त्या । यदि वा प्रद्विष्टः स्वगणः, अथवा परैर्बलात्कारेण मोचापनं परमोचापनं, यद्वा इच्छा पूर्वा द्वयोर्गणयोर्विवादे । एतैः कारणैरगृहीभूतोऽप्युपस्थाप्यते ॥ ११९३॥
तत्र यथा राजानुवृत्त्या सोऽगृहस्थीभूतोऽप्युपस्थाप्यो भवति तथा भाव्यते। इहानवस्थाप्यं पाराञ्चितं वा कोऽपि प्रतिपन्नस्तस्य चायं कल्पः- यावदनवस्थाप्यं पाराञ्चितं वा वहति तावदहिः क्षेत्रादवतिष्ठते। स च बहिर्यावत्तिष्ठति तावन्न गृहस्थः क्रियते किन्त्वागतः करिष्यते। बहिश्चावतिष्ठमानः स जिनकल्पिक इव भिक्षाचर्यामलेपकृद्भक्तादिग्रहणात्मिकां करोति। तस्य च तथा बहिस्तिष्ठतो यदाचार्यः करोति तत् प्रतिपादयति
ओलोयणं गवेसण,आयरिओ कुणति सव्वकालंपि।
उप्पन्ने कारणम्मि, सव्वपयत्तेण कायव्वं ॥ ११९४ ॥ [बृ.क.भा. ५०३६] १. 'अत्र ११९३ गाथा स्थाने चूर्णी भिन्ना गाथा दृश्यते'-पु.प्रे. ॥
सूत्र २३
गाथा ११९१-११९५ गृही अकरणे कारणानि
६०५ (A)
For Private and Personal Use Only