________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६०२ (B)
*********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तम्हा अपरायत्ते, दिक्खिज्जाऽणारिए य वजेज्जा ।
अद्धाण अणाभोगा, विदेस असिवादिसुं दोवि ॥ ११८७ ॥ [ बृ.क.भा.६३१०]
यस्मात्परायत्तदीक्षणे अनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत्, अनार्यांश्च देशान् वर्जयेत् । अत्रैवापवादमाह अद्धाणत्ति अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत् । यदि वाऽनाभोगतः प्रव्राजयेत् विदेशस्था वा स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु दोवित्ति द्वे अपि परायत्तदीक्षणाऽनार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? - अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥ ॥ ११८७ ॥
सूत्रम् - अणवट्टप्पं भिक्खुं अगिहिभूयं नो कप्पइ तस्स गणावच्छेइयस्स उवट्ठावेत्तए ॥ १८ ॥ अणवट्टप्पं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेदियस्स उट्ठावित्त ॥ १९ ॥ इति ।
अथास्य सूत्रस्य कः सम्बन्धः ? उच्यते
For Private and Personal Use Only
सूत्र १९-२२
गाथा ११८६-१९९० अनवस्थाप्य
पाराञ्चितयोः
गृहीकरण
सामाचारी
६०२ (B)