________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀܀܀܀
सूत्रम् द्वितीय
उद्देशकः
६०२ (A)
www.kobatirth.org
एवमयमपि साधुस्तव सत्कमात्मीयं च सर्वं सारं तव गृहे मुक्त्वा निष्क्रान्तः संसारसमुद्रादुत्तीर्ण इति शुद्धः, न धनिका ऋणमात्मीयं याचितुं लभन्ते । तस्माद् न किञ्चिदत्र तवाऽऽभाव्यमस्तीति करोत्विदानीमेष स्वेच्छया तपोवाणिज्यं पोतपरिभ्रष्टवणिगिव निरृणो वाणिज्यमिति ॥ ११८५ ॥
गतमनाप्तद्वारम् ४। अधुना बोधिकस्तेनद्वारप्रतिपादनार्थमाह
बोहियतेणेहिं हिए, विमग्गणे साहुणो नियमसो उ । अणुसासणमादीतो, एसेव कमो निरवसेसो ॥ ११८६ ॥ दारं ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बोधिकाः स्तेनाश्च प्रागुक्तस्वरूपाः । तैर्हृते साधौ नियमशः नियमेन साधोर्विमार्गणं कर्तव्यम्। तस्मिंश्च विमार्गणे कर्तव्ये अनुशासनादिको अनुशिष्टिप्रदानादिको धनप्रदानपर्यन्त एष एवानन्तरोदितः क्रमो निरवशेषो वेदितव्यः ५ ॥ ११८६ ॥
सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह
For Private and Personal Use Only
सूत्र १९-२२ गाथा ११८६-१९९० अनवस्थाप्यपाराञ्चितयोः
गृहीकरण
सामाचारी
६०२ (A)